top of page

गौरीगिरीशकल्याणस्तवः (शिवाभिनवनृसिंहभारतीविरचितः) | gauri girisha kalyana stavah

श्रीगौरीगिरीशकल्याणस्तवः 
(श्रीश‍ृङ्गगिरौ - श्रीभवानीमलहानिकरेश्वरकल्याणोत्सवे)
चन्द्रार्धप्रविभासिमस्तकतटौ तन्द्राविहीनौ सदा
भक्तौघप्रतिपालने निजतनुच्छायाजितार्कायुतौ ।
श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ कारुण्यवारान्निधी
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ १॥

अन्योन्यार्चनतत्परौ मधुरवाक्सतोषितान्योन्यकौ
चन्द्रार्धाञ्चितशेखरौ प्रणमतामिष्टार्थदौ सत्वरम् ।
श‍ृङ्गाहिस्थविवाहमण्डपगतौ श‍ृङ्गारजन्मावनी
कल्पाणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ २॥

कामापत्तिविभूतिकारणदृशौ सोमार्धभूषोज्ज्वलौ
सामाम्नायसुगीयमानचरितौ रामार्चिताङ्घ्रिद्वयौ ।
श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ माणिक्यभूषान्वितौ
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ ३॥

सौन्दर्येण परस्परं प्रमुदितावन्योन्यचित्तस्थितौ
राकाचन्द्रसमानवक्त्रकमलौ पाकाब्जकालङ्कृतौ ।
श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ तुङ्गातटावासिनौ
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ ४॥

सिंहोक्षाग्र्यगती महोन्नतपदं सम्प्रापयन्तौ नता-
नंहोराशिनिवारणैकनिपुणौ…
bottom of page