top of page

गौरीदशकम् अथवा गौरी स्तुतिः (शङ्कराचार्यविरचितम्) | Gauridashakam

गौरीदशकम्  अथवा गौरी स्तुतिः 

       ॥ श्रीः ॥

लीलालब्धस्थापितलुप्ताखिललोकां
     लोकातीतैर्योगिभिरन्तश्चिरमृग्याम् ।
बालादित्यश्रेणिसमानद्युतिपुञ्जां
     गौरीममम्बामम्बुरुहाक्षीमहमीडे ॥ १॥

प्रत्याहारध्यानसमाधिस्थितिभाजां
     नित्यं चित्ते निर्वृतिकाष्ठां कलयन्तीम् ।
सत्यज्ञानानन्दमयीं तां तनुरूपां
     गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ २॥

चन्द्रापीडानन्दितमन्दस्मितवक्त्रां
     चन्द्रापीडालंकृतनीलालकभाराम् ।
इन्द्रोपेन्द्राद्यर्चितपादाम्बुजयुग्मां
     गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ३॥

आदिक्षान्तामक्षरमूर्त्या विलसन्तीं
     भूते भूते भूतकदम्बप्रसवित्रीम् ।
शब्दब्रह्मानन्दमयीं तां तटिदाभां
     गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ४॥

मूलाधारादुत्थितवीथ्या विधिरन्ध्रं
     सौरं चान्द्रं व्याप्य विहारज्वलिताङ्गीम् ।
येयं सूक्ष्मात्सूक्ष्मतनुस्तां सुखरूपां
     ग…
bottom of page