top of page
गौरीस्तुतिः गणेशकृता (शिवरहस्यान्तर्गता) | Gauri stutih ganesha kritA
गणेशकृता गौरीस्तुतिः
जयाम्ब जय शर्वाणि जय गौरि शिवप्रिये ।
जयान्नपूर्णे विमले कालकालप्रियेऽनघे ॥ ३९॥
जय शैलसुते देवि कमलामललोचने ।
जयामराङ्गनाराध्ये जय कल्याणि शाम्भवि ॥ ४०॥
जय मङ्गलसर्वाङ्गे मङ्गले सर्वमङ्गले ।
जय मृत्युञ्जयार्धाङ्गि तुङ्गसिंहासनाश्रये ॥ ४१॥
जय भक्तजनानन्दप्रदाननियतव्रते ।
जय दुर्गे विशालाक्षि जय त्रिपुरभैरवि ॥ ४२॥
जय वागीश्वरि प्राज्ञे मङ्गले गौरि चण्डिके ।
चित्रघण्टे जयानङ्गविजयध्वजमालिके ॥ ४३॥
जय श्रीविकटागौरि सिद्धेश्वरि नमो…bottom of page
