top of page
गौर्यष्टोत्तरशतनामस्तोत्रम् १ (त्रिपुरारहस्यान्तर्गतम् गौरी गोजननी विद्या शिवा देवी महेश्वरी) | gauryashtottara shatanama stotram 1
गौर्यष्टोत्तरशतनामस्तोत्रम्
दत्तात्रेयेण गौर्यष्टोत्तरशतनामस्तोत्रोपदेशवर्णनम् ।
अथ गौर्यष्टोत्तरशतनामस्तोत्रम् ।
इति श्रुत्वा कथां पुण्यां गौरीवीर्यविचित्रिताम् ।
अपृच्छद्भार्गवो भूयो दत्तात्रेयं महामुनिम् ॥ १॥
भगवन्नद्भुततमं गौर्या वीर्यमुदाहृतम् ।
शृण्वतो न हि मे तृप्तिः कथां ते मुखनिःसृताम् ॥ २॥
गौर्या नामाष्टशतकं यच्छच्यै धिषणो जगौ ।
तन्मे कथय यच्छ्रोतुं मनो मेऽत्यन्तमुत्सुकम् ॥ ३॥
भार्गवेणेत्थमापृष्टो योगिराडत्रिनन्दनः ।
अष्टोत्तरशतं नाम्नां प्राह गौर्या दयानिधिः ॥ ४॥
जामदग्न्य शृणु स्तोत्रं गौरीनामभिरङ्कितम्…bottom of page
