top of page

जगदम्बास्तुतिः ३ (राजानकविद्याधरविरचिता) | jagadamba stutih 3

श्रीजगदम्बास्तुतिः 
     ॐ नमः श्रीजगदम्बायै ।
ॐ विश्वेश्वरी निखिलदेव महर्षिपूज्या
     सिंहासना त्रिनयना भुजगोपवीता ।
शङ्खाम्बुजास्यऽमृतकुम्भक पञ्चशाखा
     राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १॥

जन्माटवी प्रदहने दव-वह्नि-भूता
     तत्पाद पङ्कजरजोगत चेतसां या ।
श्रेयोवतां सुकृतिनां भवपाशभेत्री
     राज्ञी सदा भगवती भवतु प्रसन्ना ॥ २॥

देव्या यया दनुजराक्षसदुष्ट-चेतो
     न्यग्भावितं चरणनूपुरशिञ्जितेन ।
इन्द्रादिदेव हृदयं प्रविकासयन्ती
     राज्…
bottom of page