top of page

देवीभुजङ्गस्तोत्रम् (शङ्कराचार्यविरचितम्) | Devi bhujanga stotram

देवीभुजंगस्तोत्रम् 
        ॥ श्रीः ॥

    ॥ अथ देवीभुजंगस्तोत्रम् ॥

विरिञ्च्यादिभिः पञ्चभिर्लोकपालैः
समूढे महानन्दपीठे निषण्णम् ।
धनुर्बाणपाशाङ्कुशप्रोतहस्तं
महस्त्रैपुरं शंकराद्वैतमव्यात् ॥ १॥

यदन्नादिभिः पञ्चभिः कोशजालैः
शिरःपक्षपुच्छात्मकैरन्तरन्तः ।
निगूढे महायोगपीठे निषण्णं
पुरारेरथान्तःपुरं नौमि नित्यम् ॥ २॥

विरिञ्चादिरूपैः प्रपञ्चे विहृत्य
स्वतन्त्रा यदा स्वात्मविश्रान्तिरेषा ।
तदा मानमातृप्रमेयातिरिक्तं
परानन्दमीडे भवानि त्वदीयम् ॥ ३॥

विनोदाय चैतन्यमेकं विभज्य
द्विधा देवि जीवः शिवश्रेति नाम्ना ।
शिवस्यापि जीवत्वमापादयन्ती
पुनर्जीवमेनं शिवं वा करोषि ॥ ४॥

समाकुञ्च्य…
bottom of page