top of page
देवीसहस्रनामस्तोत्रम् (कूर्मपुराणान्तर्गतम्) | Devi Sahasra nama stotram
श्रीदेवीसहस्रनामस्तोत्रम् कूर्मपुराणान्तर्गतम्
ऋषयः ऊचुः --
कैषा भगवती देवी शंकरार्धशरीरिणी ।
शिवा सती हैमवती यथावद्ब्रूहि पृच्छताम् ॥ १॥
तेषां तद्वचनं श्रुत्वा मुनीनां पुरुषोत्तमः ।
प्रत्युवाच महायोगी ध्यात्वा स्वं परमं पदम् ॥ २॥
श्रीकूर्म उवाच --
पुरा पितामहेनोक्तं मेरुपृष्ठे सुशोभनम् ।
रहस्यमेतद् विज्ञानं गोपनीयं विशेषतः ॥ ३॥
सांख्यानां परमं सांख्यं ब्रह्मविज्ञानमुत्तमम् ।
संसारार्णवमग्नानां जन्तूनामेकमोचनम् ॥ ४॥
या सा माहेश्वरी शक्तिर्ज्ञानरूपाऽतिलालसा ।
व्योमसंज्ञा परा…bottom of page
