top of page

देवीस्तवम् | Devistava (Harivasham)

देवीस्तवम् 

    हरिवंशे अनुबन्धम्- अध्याय-८

वैशम्पायन उवाच
आर्या कात्यायनी देवी कौशिकी ब्रह्मचारिणी ।
जननी सिद्धसेनस्य दुर्गा वीरा महातपाः ॥ १॥

जया च विजया चैव पुष्टिश्च त्वं क्षमा दया । 
ज्येष्ठा यमस्य भगिनी नीलकौशेयवासिनी ॥ २॥

बहुरूपा विरूपा च अनेकविधरूपिणी । 
विरूपाक्षी विशालाक्षी भक्तानां परिरक्षणी ॥ ३॥

पर्वताग्रेषु घोरेषु नदीषु च गुहासु च । 
वासस्तव महादेवि वनेषूपवन…
bottom of page