top of page

नवरत्नमालिका अम्बिकास्तुतिः (नरकण्ठीरवशास्त्रिविरचिता) | navaratna malika ambika stutih

नवरत्नमालिका अम्बिकास्तुतिः 
(श्रीकालहस्तिक्षेत्रस्थज्ञानप्रसूनाम्बिकास्तुतिः)
श्रीनरकण्ठीरवशास्त्रिविरचिता ।
श्रीनाकनाथमुखनानासहस्रसुरसेनाग्रमौलिवलभी-
सूनावलीबहुललीनालिनीमधुरगानाञ्चिताङ्घ्रिनलिना ।
मानातिलङ्घिमहिमानादिरानतजनानामनेकफलदा
ज्ञानाम्बिका भवतु दीनावनी कुशलदानाय मे भगवती ॥ १॥

राकाशशाङ्करुचिराकारचारुपादना(पतदा)काशसिन्धुलहरी-
नीकाशसूक्तिसरणीकारिणी प्रकृतिमूकात्मनामपि नृणाम् ।
पाकाहितप्रमुखनाकालयप्रकरशोकापनोदनचणा
श्रीकालहस्तिनगरैकायनावतु पिनाकायुधस्य दयिता ॥ २॥

श्रेणीभवद्दिविषदेणीदृगुल्लसितवेणीपिनद्धसुमनो-
द्रोणीमरन्दरसवेणीप्रसारभृशशोणीकृताङ्घ्रिकमला ।
श्रोणीनटत्सरकृपाणीमनोज्ञघनवेणी कृपार्द्रहृदया
क्षोणीधरेन्द्रतनयाणीयसीमपि च वाणीं प्रगल्भयतु मे ॥ ३॥

केलीसमाकलिततालीदलश्रवणपालीविभूषणमणी-
वा(पा)ली मदोद्धतमरालीगतिर्दिंशतु नालीकदीर्घनयना ।
चूलीतलाभरणनालीकवैरिशकलालीभवत्सुरवधूःऽ
काली गिरं मृदु मृणालीभुजा मम मधूलीरसोर्मिमधुराम् ॥ ४॥

हृद्यानवद्यतरगद्यानुबद्धमृदुपद्याभिरूपकवितां
दद्याज्जगन्महितविद्यां त्रयीशिखरवेद्या हिमाद्रितनया ।
आद्या परा मम शरद्यामिनीशभृदविद्याविलासशमनी
विद्याधरी समभिवाद्या ज्वलन्मणिनिषद्यायमाणरशना ॥ ५॥

हालामदाकलितहेलालसद्बहुललोलारुणाक्षियुगली
लीलापिनद्धसुरसालावलीप्रसवमालासुगन्धचिकुरा ।
कैलासनाथहितशीला कराञ्चितशुकालापलोलहृदया
वेलातिलङ्घिशुभजालाय मे…
bottom of page