top of page

पराम्बिकास्तुतिः ब्रह्मणा कृता (देवीभागवतमहापुराणान्तर्गता) | Parambika Stuti by Brahma

ब्रह्मणा कृता पराम्बिकायाः स्तुतिः 
(देवीभागवततः)
ब्रह्मोवाच ।
देवि त्वमस्य जगतः किल कारणं हि
     ज्ञातं मया सकलवेदवचोभिरम्ब ।
यद्विष्णुरप्यखिललोकविवेककर्ता
     निद्रावशं च गमितः पुरुषोत्तमोऽद्य ॥ २७॥

को वेद ते जननि मोहविलासलीलां
     मूढोऽस्म्यहं हरिरयं विवशश्च शेते ।
ईदृक्तया सकलभूतमनोनिवासे
     विद्वत्तमो विबुधकोटिषु निर्गुणायाः ॥ २८॥

साङ्ख्या वदन्ति पुरुषं प्रकृतिं च यां तां
     चैतन्यभावरहितां जगतश्च कर्त्रीम् ।
किं तादृशासि कथमत्र जगन्निवास…
bottom of page