top of page

पर्वतवर्धिन्यष्टकम् अथवा रामनाथेश्वर्यष्टकं (श्रीरामप्रोक्तम्) | parvatavardhini ashtaka

पर्वतवर्धिन्यष्टकं अथवा रामनाथेश्वर्यष्टकम् 
श्रीगणेशाय नमः ।
सेव्यां साधुजनैः सरोजनयनां पूर्णेन्दुबिम्बाननां
      ईड्यामागमवेदिभिर्मुनिगणैः ध्येयां सदा योगिभिः ।
ध्येयां तुम्बुरुनारदप्रभृतिभिः ब्रह्मादिभिः पूजितां
      वन्दे पर्वतवर्धितां स्मितमुखीं श्रीरामनाथेश्वरीम् ॥ १॥

गौरीं हारकिरीटनूपरलसत्खण्डेन्दुभूषान्वितां
      विद्यां वेदशिरोभिरीड्यमहिमामीशानदेहालयाम् ।
भक्ताभीष्टवरप्रदानचतुरां संसारसंहारिणीं
      वन्दे पर्वतवर्धितां स्मितमुखीं श्रीरामनाथेश्वरीम् ॥ २॥

मायामात्रविनोदनिर्मितजगद्रक्षान्तकृत्यान्वितां
      सेतौ सादरमागताखिलजगत्क्षेमाय सम्प्रस्थिताम् ।
भक्ताघौघवनानलोज्ज्वलशिखां राजीवनेत्रद्वयां
      वन्दे पर्वतवर्धितां स्मितमुखीं श्रीरामनाथेश्वरीम् ॥ ३॥

दुर्गे ग…
bottom of page