top of page
पार्वतीतपश्चर्यावर्णनम् (शिवरहस्यान्तर्गतम्) | parvatitapashcharyavarnanam
पार्वतीतपश्चर्यावर्णनम्
(शिवरहस्यान्तर्गते ईशाख्ये)
हिमवान् उवाच ।
हितं वदामि ते पुत्रि श्रुणु मत्तस्तपः स्थिता ।
ममैव मौलिविवरे केदारार्चनतत्परा ॥ १९॥
नानामुनिजनाकीर्णे नानासिद्धविराजिते ।
नानापक्षिरुतापारमृगसङ्घनिषेविते ॥ २०॥
सरोवरैकबहुले प्रफुल्लकमलोत्पले ।
अत्र केदारनाथस्य पूजनान्मुक्तिभाङ्नरः ॥ २१॥
बहवोऽत्र समभ्यर्च्य सुराश्च मुनयः पुरा ।
लेभिरे वाञ्छितान् कामान् तपसा तोष्य शङ्करम् ॥ २२॥
सुब्रह्मण्य उवाच ।
इत्युक्तां तां समालिङ्ग्य मेनया हिमभूधरः ।
पार्वतीयैर्गणैर्युक्तो नानावर्णैर्दुरासदैः ॥ २३॥
मेनया च समैनाको…bottom of page
