top of page

पार्वतीपञ्चकम् | Parvati panchakam

पार्वतीपञ्चकम् 

श्रीगणेशाय नमः ।
विनोदमोदमोदिता दयोदयोज्ज्वलान्तरा
निशुम्भशुम्भदम्भदारणे सुदारुणाऽरुणा ।
अखण्डगण्डदण्डमुण्डमण्डलीविमण्डिता
प्रचण्डचण्डरश्मिरश्मिराशिशोभिता शिवा ॥ १॥

      अमन्दनन्दिनन्दिनी धराधरेन्द्रनन्दिनी
      प्रतीर्णशीर्णतारिणी सदार्यकार्यकारिणी ।
      तदन्धकान्तकान्तकप्रियेशकान्तकान्तका
      मुरारिकामचारिकाममारिधारिणी शिवा ॥ २॥

अशेषवेषशून्यदेशभर्तृकेशशोभिता
गणेशदेवतेशशेषनिर्निमेषवीक्षिता ।
जितस्वशिञ्जिताऽलिकुञ्जपुञ्जमञ्जुगुञ्जिता
समस्तमस्तकस्थिता निरस्तकामकस्तवा ॥ ३॥

      ससम्भ्रमं भ्रमं भ्रमं भ्रमन्ति मूढमानवा
      मुधाऽबुधाः सुधां विहाय धावमानमानसाः ।
      अधीनदीनहीनवारिहीनमीनजीवना
      ददातु शंप्रदाऽनिशं वशंवदार्थमाशिषम् ॥ ४॥

विलोललोचनाञ्चितोचितैश्चिता सदा गुणैर्-
अपास्यदास्यमेवमास्यहास्यलास्यकारिणी  ॥

निराश्रयाऽऽश्रयाश्रयेश्वरी सदा वरी…
bottom of page