top of page

पार्वतीश्रीकण्ठस्तुतिः (शिवाभिनवनृसिंहभारतीविरचिता) | parvati shrikantha stutih

श्रीपार्वतीश्रीकण्ठस्तुतिः 
(श्रीगरलपुरप्रवेशकाले)
आसन्बहवो घस्रा मातस्त्वच्चरणदर्शनं हित्वा
पार्वति कृतार्थतां खलु गमितस्त्वत्पाददर्शनादद्य ॥ १॥

सच्चित्सुखस्वरूपां ब्रह्मैतत्पश्यतेन्दुशीर्षाख्यम् ।
इति वदति शैलतनया साक्षान्नूनं प्रसारिताङ्गुल्या ॥ २॥

भक्तानां पापवृक्षौघच्छेदनायेन्दुशेखर ।
बिभर्षि पट्टसं रत्नत्सरुं किं लोकशङ्कर ॥ ३॥

स्पृष्टस्य चैकेन पदासुरस्य महत्पदं मुक्तिरभूत्किलास्य ।
स्पर्शेऽन्यपादस्य फलं हि दातुं नास्तीत्यतो व्योम्नि दधासि चान्यम् ॥ ४॥

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीपार्वतीश्रीकण्ठस्तुतिः सम्पूर्णा ।

bottom of page