top of page

पार्वतीश्रीकण्ठस्तोत्रम् (शिवाभिनवनृसिंहभारतीविरचितम्) | Parvati shrikanthha stotram

श्रीपार्वतीश्रीकण्ठस्तोत्रम् 
(श्रीगरलपुरतः प्रस्थानसमये)
बहुभ्यो घस्रेभ्यस्तव पदसरोजातयुगलं
निरीक्ष्याहं मोदं बहुलमगमं शैलतनये ।
भविष्यान्मातस्त्वत्पदयुगसरोजातविरहा-
द्भवेद्यः खेदस्तं शमय हृदयाब्जे विलसनात् ॥ १॥

प्रभोऽष्टमूर्ते मम चित्तमध्ये संस्थाप्य चैकां तव मूर्तिमारात् ।
अपि स्थितस्य प्रमुदं विधेहि का ते क्षतिस्तेन कृपापयोधे ॥ २॥

मन्मूर्तिमेकां तव पादमूले दधासि यस्माच्छशिबालमौले ।
तस्माच्च मन्मानसपङ्कजाते त्वया विधेया तव मूर्तिरेका ॥ ३॥

आकाशस्य विभुत्वात्तत्रस्थत्वाच्च पादपद्मस्य ।
तव नटनाथ पदं मच्चित्ते स्फुरताद्धि…
bottom of page