top of page

पार्वतीसहस्रनामस्तोत्रम् (कूर्मपुराणान्तर्गतम्) | parvati sahasranama stotram

श्रीपार्वतीसहस्रनामस्तोत्रम् 
(दुर्गासहस्रनामस्तोत्रमिति स्कान्दे क्वचित्कचिद्भिन्नम् ।)
     हिमवानुवाच ।
का त्वं देवि विशालाक्षि शशाङ्कावयवाङ्किते ।
न जाने त्वामहं वत्से यथावद् ब्रूहि पृच्छते ॥ १॥

गिरीन्द्रवचनं श्रुत्वा ततः सा परमेश्वरी ।
व्याजहार महाशैलं योगिनामभयप्रदा ॥ २॥

     देव्युवाच ।
मां विद्धि परमां शक्तिं परमेश्वरसमाश्रयाम् ।
अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः ॥ ३॥

अहं वै सर्वभावानामात्मा सर्वान्तरा शिवा ।
शाश्वतैश्वर्यविज्ञानमूर्तिः सर्वप्रवर्तिका ॥ ४॥

अनन्ताऽनन्तमहिमा संसारार्…
bottom of page