top of page
पार्वतीस्तवः देवैः कृता (शिवरहस्यान्तर्गता) | Parvati stavah devaih krita
देवैः कृता पार्वतीस्तवः
शरच्छशिसमानने जितगजेन्द्रयाते शिवे
सुनीलजलदोपमोज्वलकचे सुनबिम्बाधरे ।
सुनीलनयनाञ्चलोत्पलसमाननेत्राञ्चले
दयारसघने शिवे सदयमद्य नः पालय ॥ २९॥
सुरासुरमुनिव्रजैर्नतपदाम्बुजे शङ्करि
महेश्वरमहाङ्कगे विकचमल्लिधम्मिलके ।
भवानि भवनाशिनि हरितभक्तपापव्रजे
नमाम पदपङ्कजं तव विमुक्तिदं केवलम् ॥ ३०॥
कदम्बवनसंस्थिते मणिकदम्बकान्तिप्रिये
शरच्छशिसुबिम्बवत्प्रथितवक्त्रबिम्बाधरे ।
सुगन्धतरबन्धुरायितसुगात्रिताम्भोरुहो-
ज्वलन्नयनकोटिके नतगुहादिहेरम्बके ॥ ३१॥
नगेन्द्रकुलकन्यके विधृतसामिसोमालके
महेश्वरि सुयल्लके ह्यसुरजालसम्भल्लके ।
नमाम पदपल्लवं तत्र सुगल्लमौलिस्फुर-
त्सुरोत्तमकिरीटकज्वलितपापमल्लापहम् ॥ ३२॥
कुलाचलकुलं त्वया तिलककान्तमीशे कृतं
कुलाचलभ(श)याश्रयात्कुलिशिताघमङ्घे शिवे ।
कुलीनजनमानसाश्रयणपादपद्मो ज्वले
प्रसीद पवनानलैर्नतपदाम्बुजे शङ्करि ॥ ३३॥
॥ इति…bottom of page
