top of page

पार्वतीस्तुतिः (मत्स्यपुराणान्तर्गतं वीरककृता नतसुरासुरमौलिमिलन्) | Parvati stutih

वीरककृता पार्वतीस्तुतिः 

वीरक उवाच ।
नतसुरासुरमौलिमिलन्मणिप्रचयकान्ति कराल नखाङ्किते ।
नगसुते! शरणागतवत्सले! तव नतोऽस्मि नतार्तिविनाशिनि ॥ १॥

तपनमण्डलमण्डितकन्धरे ! पृथुसुवर्णसुवर्णनगद्युते ।
विषभुजङ्गनिषङ्गविभूषिते ! गिरिसुते ! भवतीमहमाश्रये ॥ २॥

जगति कः प्रणताभिमतं ददौ झटिति सिद्धनुते भवती यथा ।
जगति कां च न वाङ्छति शङ्करो भुवनधृत्तनये ! भवतीं यथा ॥ ३॥

विमलयोग विनिर्मित दुर्जय स्वतनु तुल्यमहेश्वर मण्डले ।
विदलितान्धक बान्धवसंहतिः सुरवरैः…
bottom of page