top of page
पार्वतीस्तोत्रम् ३ (अन्धककृतं कूर्मपुराणान्तर्गतम् नमामि देववल्लभामनादिमद्रिजामिमाम्) | andhaka kritam parvati stotram 3
अन्धककृतं पार्वतीस्तोत्रम्
अथान्धको महेश्वरीं ददर्श देवपार्श्वगाम् ।
पपात दण्डवत्क्षितौ ननाम पादपद्मयोः ॥
अन्धकोवाच ।
नमामि देववल्लभामनादिमद्रिजामिमाम् ।
यतः प्रधानपूरुषौ निहन्ति याऽखिलं जगत् ॥ १॥
विभाति या शिवासने शिवेन साकमव्यया
हिरण्मयेऽतिनिर्मले नमामि तां हिमाद्रिजाम् ।
यदन्तराखिलं जगज्जगन्ति यान्ति सङ्क्षयं
नमामि यत्र तामुमामशेषभेदवर्जिताम् ॥ २॥
न जायते न हीयते न वर्द्धते च तामुमां
नमामि या गुणातिगां गिरीशपुत्रिकामिमाम्…bottom of page
