top of page
पार्वतीस्तोत्रम् ५ (जैमिनिमुनिकृतं बृहन्नारदीयपुराणान्तर्गतम् नमः शिवायै जगदम्बिकायै शिवप्रियायै शिवविग्रहायै) | Jaimini muni krritam Parvati stotram 5
जैमिनिमुनिकृतं पार्वतीस्तोत्रम् ५
जैमिनिरुवाच ।
नमः शिवायै जगदम्बिकायै शिवप्रियायै शिवविग्रहायै ।
समुद्बभूवाद्रिपतेः सुता या चतुष्कपर्दा युवतिः सुपेशाः ॥ १३४॥
हिरण्यवर्णां मणिनूपुराङ्घ्रिं प्रसन्नवक्त्रां शुकपद्महस्ताम् ।
विशालनेत्रां प्रणमामि गौरीं वचोविदं वाचमुदीरयन्तीम् ॥ १३५॥
नमामि मेनातनयाममेयामिमामुमां कान्तिमतीममेयाम् ।
करोति या भूतिसितौ स्तनौ द्वौ प्रियं सखायं परिषस्वजाना ॥ १३६॥
कान्तामुमां कान्तनिभाङ्गकान्तिं भान्तामुपात्तानतहर्यजेन्द्राम् ।
नतोऽस्मि यास्ते गिरिशस्य पार्श्वे विश्वानि देवी भुवनानि चष्टे ॥…bottom of page
