top of page
पार्वतीस्तोत्रम् (प्रद्युम्नकृतं हरिवंशान्तर्गतम् नमः कात्यायन्यै गुहस्य जनन्यै नमः) | Pradyumna krritam Parvati stotram
प्रद्युम्नकृतं पार्वतीस्तोत्रम्
प्रद्युम्न उवाच ।
ॐ नमः कात्यायन्यै गुहस्य जनन्यै नमः ।
नमस्त्रैलोक्यमायायै कात्यायन्यै नमो नमः ॥ १॥
नमः शत्रुविनाशिन्यै नमो गार्ग्यै गिरीशये ।
नमस्ये शुम्भहननीं निशुम्भहृदिदारणीम् ॥ २॥
कालरात्रिं नमस्येऽहं कुमारीं चापि नित्यशः ।
कान्तारवासिनीं देवीं नमस्यामि कृताञ्जलिः ॥ ३॥
विन्ध्यवासिनीं दुर्गघ्नीं रणदुर्गां रणप्रियाम् ।
नमस्यामि महादेवीं जयां च विजयां तथा ॥ ४॥
अपराजितां नमस्येऽहमजितां शत्रुतापनीम् ।
घण्टाहस्तां नमस्यामि…bottom of page
