top of page
भगवत्यष्टकम् | bhagavatyashtakam
भगवत्यष्टकम्
नमोऽस्तु ते सरस्वति त्रिशूलचक्रधारिणि सिताम्बरावृते शुभे मृगेन्द्रपीठसंस्थिते ।
सुवर्णबन्धुराधरे सुझल्लरीशिरोरुहे सुवर्णपद्मभूषिते नमोऽस्तु ते महेश्वरि ॥ १॥
पितामहादिभिर्नुते स्वकान्तिलुप्तचन्द्रभे सरत्नमालयावृते भवाब्धिकष्टहारिणि ।
तमालहस्तमण्डिते तमालभालशोभिते गिरामगोचरे इले नमोऽस्तु ते महेश्वरि ॥ २॥
स्वभक्तवत्सलेऽनघे सदापवर्गभोगदे दरिद्रदुखहारिणि त्रिलोकशङ्करीश्वरि ।
भवानि भीम अम्बिके प्रचण्डतेज उज्ज्वले भुजाकलापमण्डिते नमोऽस्तु ते महेश्वरि ॥ ३॥
प्रपन्नभीतिनाशिके प्रसूनमाल्यकन्धरे धियस्तमोनिवारिके विशुद्धबुद्धिकारिके ।
सुरार्चिताऽङ्घ्रिपङ्कजे प्रचण्डविक्रमेऽक्षरे विशालपद्मलोचने नमोऽस्तु ते…bottom of page
