top of page

भवानीचन्द्रशेखरस्तोत्रम् (शिवाभिनवनृसिंहभारतीविरचितम्) | Bhavani chandrashekhara stotram

श्रीभवानीचन्द्रशेखरस्तोत्रम् 
(श्रीश‍ृङ्गगिरौ - श्रीभवानीमलहानिकरेश्वरकल्याणोत्सवे)
वैवाहिकासनासीनौ वैमानिकवरार्चितौ ।
वैराग्यदायिनौ दत्तां वैशद्यं मम चेतसः ॥ १॥

भक्तेष्टदाननिरतौ भयवारणदीक्षितौ ।
भवेतां भव्यसन्तत्यै भवानीचन्द्रशेखरौ ॥ २॥

भरताग्रजसंसेव्यौ भवसागरतारकौ ।
भर्मभूषौ नमस्यामि भवानीचन्द्रशेखरौ ॥ ३॥

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीभवानीचन्द्रशेखरस्तोत्रं सम्पूर्णम् ।

bottom of page