top of page

भवानीभुजङ्गप्रयातस्तोत्रम् (शङ्कराचार्यविरचितम्) | Bhavani-Bhujangaprayata Stotra

भवानीभुजङ्गप्रयातस्तोत्रम् 
श्री गणेशाय नमः ।
षडाधारपङ्केरुहान्तर्विराज-
        त्सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् ।
सुधामण्डलं द्रावयन्तीं पिबन्तीं
        सुधामूर्तिमीडेऽहमानन्दरूपाम् ॥ १॥ (चिदानन्दरूपाम्)

ज्वलत्कोटिबालार्कभासारुणाङ्गीं
        सुलावण्यश‍ृङ्गारशोभाभिरामाम् ।
महापद्मकिञ्जल्कमध्ये विराजत्
        त्रिकोणोल्लसन्तीं भजे श्रीभवानीम् ॥२॥ (त्रिकोणे निषण्णां)

क्वणत्किङ्किणीनूपुरोद्भासिरत्न-
        प्रभालीढलाक्षार्द्रपादारविन्दम् । (पादाब्जयुग्मम्)
अजेशाच्युताद्यैः सुरैः सेव्यमानं
        महादेवि मन्मूर्ध्नि ते भावयामि ॥ ३॥

सुषोणाम्बराबद्धनीवीविराज-
        न्महारत्नकाञ्चीकलापं नितम्बम् ।
स्फुरद्दक्षिणावर्तनाभिं च तिस्रो
        वली रम्यते रोमराजिं भजेऽहम् ॥ ४॥ (वलीरम्ब)

लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भो-
        प…
bottom of page