top of page
योगाम्बाष्टकम् (उद्यद्भानुसहस्रकोटिविलसत्) | yogambashtakam
श्रीयोगाम्बाष्टकम्
उद्यद्भानुसहस्रकोटिविलसद्देहप्रभोद्भासितां
मुक्ताहारविभूषितामगसुतां कौसुम्भवस्त्रान्विताम् ।
हस्तस्थाक्षसुपुस्तकाभयवरां चन्द्रार्धचूडां शिवां
श्रीमदुकुन्दवनालयामनुदिनं ध्यायामि योगाम्बिकाम् ॥ १॥
सम्फुल्लत्कमलाननां करधृताम्भोजाभयाभीष्टदां
पार्श्वस्थद्विरदेन्द्रवत्ससहितामाकर्णपूर्णेक्षणाम् ।
कुम्भाकारकुचातिभारनमितश्रीमध्यभागां शिवां
श्रीमत्कुन्दवनालयामनुदिनं ध्यायामि योगाम्बिकाम् ॥ २॥
तप्तस्वर्णतनुप्रभां दरहसां कल्हारमध्यस्थितां
काञ्चीनूपुरकङ्कणाङ्गदलसद्ग्रैवेयहारोज्ज्वलाम् ।
शुण्डादण्डसमानहस्तचतुरां चन्द्रार्धचूडां शिवां
श्रीमद्कुन्दवनालयामनुदिनं ध्यायामि योगाम्बिकाम् ॥ ३॥
दीप्यत्कोमलसत्प्रवाललतिकां चित्रप्रभाभासुरां
मत्तेपापृथुकुम्भसत्कुचनतां पूर्णेन्दुबिम्बाननाम् ।
हस्तैश्शूलकपालकार्मुककशान् सम्बिभ्रतीं त्रीक्षणां
श्रीमत्कुन्दवनालयामनुदिनं ध्यायामि योगाम्बिकाम् ॥ ४॥
रक्ताङ्गीं मृगनाभिबिन्दुविलसद्बालेन्दुफालां परां
शोणासृग्वसनां पयोधरनतां काश्मीरपङ्काञ्जिताम…bottom of page
