top of page

रत्नगर्भा धरा सुस्मिता श्यामला, संस्कृतं बोधकं भारतं भूतले | ratnagarbha dhara susmita shyamala

रत्नगर्भा धरा सुस्मिता श्यामला 
रत्नगर्भा धरा सुस्मिता श्यामला
      दिव्यतीर्थास्तटाः पर्वताः सिन्धवः ।
निर्झराः वाटिकाश्चात्र देवालयाः
      भव्यमेतत्प्रियं भारतं भूतले ॥ १॥

वेदशास्त्राणि साहित्यकाव्यानि वा
      यत्र यच्छन्ति लोकाय सत्प्रेरणम् ।
रम्यरामायणं श्रीमहाभारतं
      राष्ट्रमेतद्वरं भारतं भूतले ॥ २॥

यत्र देवी सती शारदा जानकी
      चानुसूया शिवा द्रौपदी पद्मिनी ।
सन्ति सर्वा इमाः वत्सलाः मातरः
     …
bottom of page