top of page

राजश्यामलारहस्योपनिषत् (शाक्त) | Rajashyamala rahasyopanishat

राजश्यामलारहस्योपनिषत् 
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ।
ॐ रत्नसानुशिखरेष्वासीनं श्रीराजश्यामलारहस्योपनिषद्वेत्तारं
मतङ्गऋषिं गुरुं कूचिमारः प्रोवाच । मतङ्ग भगवन् गुरो
राजश्यामलारहस्योपनिषदं मेऽनुब्रूहि । मतङ्गभगवान् कूचिमारं
स होवाच । ते राजश्यामलारहस्योपनिषदमुपदिशामि ॥

अथातः श्रीराजश्यामलारहस्योपनिषदं व्याख्यास्यामः ।
मन्त्रजपाधिकरणन्यासाधिकरणस्तोत्राधिकरणपूजाधिकरणमैथुनाधिकरणैः
पञ्चभिर्ब्राह्मणो भोगमोक्षमाप्नोति । गुरोरनुज्ञया
श्रीराजश्यामलामन्त्रं नित्यं सहस्रसङ्ख्यया त्रिशतेन
वाऽष्टाविंशदुत्तरशतेन वा जप्त्वा…
bottom of page