top of page
शिवकामसुन्दरीत्रिशतनामस्तोत्रम् | shiva kama sundari trishatanama stotram
श्रीशिवकामसुन्दरीत्रिशतीनामस्तोत्रम्
पूर्वपीठिका
कैलासमध्यशृङ्गाग्रे कल्पवृक्षादिसङ्कुले ।
नानामृगगणाकीर्णे मन्दमारुतवीजिते ॥ १॥
पक्षिवृन्दरवोद्भूतमदनाधिक्यवैभवे ।
शृङ्गारविपिने यासा पद्माकरसरस्तटे ॥ २॥
चिन्तामणिशिलाक्लृप्तहर्म्यप्राकारशोभिते ।
मणिमण्डपमध्ये च दिव्यसिंहासने शुभे ॥ ३॥
आसीनं लीलया जातु महादेवं स्मिताननम् ।
प्रणिपत्य मुदा गौरी प्रोवाच वचनं मधु ॥ ४॥
श्रीगौर्युवाच
देवदेव महादेव नाथ सर्वज्ञ सर्वग ।
लोके व्याधिदरिद्राद्यैः पिशाचाद्यैश्च पीडिताः ॥ ५॥
सर्वे जनाः कथं तेभ्यो मुच्येरन् परमेश्वर ।
तदुपायं वदेशान लोकान् उद्धर्तुं आदरात्…