top of page
शिवकामसुन्दरीसहस्रनामस्तोत्रम् २ (रुद्रयामलान्तर्गर्तम्) | shiva kama sundari sahasra nama stotra 2 from rudraya mala tantra
श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रम् रुद्रयामलान्तर्गतम्
॥ पूर्वपीठिका ॥
समाहूय परं कान्तं एकदा विजने मुदा ।
परमानन्दसन्दोहमुदितं प्राह पार्वती ॥ १॥
पार्वती उवाच
श्रीमन्नाथ महानन्दकारणं ब्रूहि शङ्कर ।
योगीन्द्रोपास्य देवेश प्रेमपूर्ण सुधानिधे ॥ २॥
कृपास्ति मयि चेत् शम्भो सुगोप्यमपि कथ्यताम् ।
शिवकामेश्वरीनामसाहस्रं वद मे प्रभो ॥ ३॥
श्रीशङ्कर उवाच
निर्भरानन्दसन्दोहः शक्तिभावेन जायते ।
लावण्यसिन्धुस्तन्नापि सुन्दरी रसकन्धरा ॥ ४॥
तामेवानुक्षणं देवि चिन्तयामि ततः शिवे ।
तस्या नामसहस्राणि…