top of page
शिवकामसुन्दरीसहस्रनामावलिः १ (भृङ्गिरिटिसंहितायां) | shiva kama sundari sahasra namavali 1
श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रम्
ॐ अस्य श्री शिवकामसुन्दरीसहस्रनामस्तोत्रमहा
मन्त्रस्य । आनन्दभैरवदक्षिणामूर्तिः ऋषिः । देवी गायत्री
छन्दः । श्रीशिवकामसुन्दरी देवता । बीजं शक्तिः कीलकं
कराङ्गन्यासौ च श्रीमहात्रिपुरसुन्दरीमहामन्त्रवत् ।
॥ ध्यानम् ॥
पद्मस्थां कनकप्रभां परिलसत्पद्माक्षियुग्मोत्पलाम्
अक्षस्रक्षुकशारिकाकटिलसत् कल्हार हस्ताब्जिनीम् ।
रक्तस्रक्सुविलेपनाम्बरधरां राजीवनेत्रार्चितां
ध्यायेत् श्रीशिवकामकोष्ठनिलयां नृत्तेश्वरस्य प्रियाम् ॥
मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताण्टङ्कयुक्तां
अक्षस्रक्पुष्पहस्ता सशुककटिकरां चन्द्रचूडां त्रिनेत्रीम् ।
नानालङ्कारयुक्तां सुरमकुटमणिद्योतित स्वर्णपीठां
यासापद्मासनस्थां शिवपदसहितां सुन्दरीं चिन्तयामि ॥
रत्नताटङ्कसंयुक्तां सुवर्णकवचान्विताम् ।
दक्षिणोर्ध्वकराग्रेण स्वर्णमालाधरां शुभाम् ॥
दक्षाधः…bottom of page
