top of page
शिवास्तुतिकदम्बम् (शिवाभिनवनृसिंहभारतीविरचितम्) | shiva stuti kadambam
श्रीशिवास्तुतिकदम्बम्
कमलानि साम्यमाप्तुं तप्यन्त्यद्यापि कण्ठदघ्नजले
यत्पादयोरहर्निशमनिशं नौमि तां राजराजेशीम् ॥ १॥
कमलासखकमलोद्भवकामारिप्रमुखनिर्जरैःसेव्याम् ।
विमलामतिलघुधिषणां ददतीं नौमि नम्राय कामाक्षीम् ॥ २॥
वलमानकदम्बमालिकां ललनामिन्दुशिखामणेः पराम् ।
तुलनारहितास्यपङ्कजां कलये चेतसि शैलराट्सुताम् ॥ ३॥
तामरसतुल्यचरणां श्यामपयोवाहकान्तिकचलसिताम् ।
सामनुतदिव्यचरितां सोमसमास्यां नमामि गिरिबालाम् ॥ ४॥
नयनजितपद्मगर्वे नय नतमेनं महापदवीम् ।
मतिमति महेशमानिनि मतिमन्मनुजार्च्यमानपदपद्मे ॥ ५॥
नारदमुखमुनिचिन्त्यां नीरदगर्वापहारिकेशततिम् ।
पारदसमानवर्णां शारदचन्द्राननां भजे गौरीम् ॥ ६॥
पङ्कजसमानवक्त्रामङ्कगतां बालचन्द्रचूडस्य ।
सङ्कर्षणादिविनुतां शङ्करचरणार्चनां…bottom of page
