top of page
श्यामलासहस्रनामस्तोत्रम् (सौभाग्यलक्ष्मीकल्पान्तर्गतम्) | Shri Shyamala Sahasranama stotram
श्री श्यामलासहस्रनामस्तोत्रम्
नामसारस्तवः
सर्वशृङ्गारशोभाढ्यां तुङ्गपीनपयोधराम् ।
गङ्गाधरप्रियां देवीं मातङ्गीं नौमि सन्ततम् ॥ १॥
श्रीमद्वैकुण्ठनिलयं श्रीपतिं सिद्धसेवितम् ।
कदाचित्स्वप्रियं लक्ष्मीर्नारायणमपृच्छत ॥ २॥
लक्ष्मीरुवाच
किं जप्यं परमं नॄणां भोगमोक्षफलप्रदम् ।
सर्ववश्यकरं चैव सर्वैश्वर्यप्रदायकम् ॥ ३॥
सर्वरक्षाकरं चैव सर्वत्र विजयप्रदम् ।
ब्रह्मज्ञानप्रदं पुंसां तन्मे ब्रूहि जनार्दन ॥ ४॥
भगवानुवाच
नामसारस्तवं पुण्यं पठेन्नित्यं प्रयत्नतः ।
तेन प्रीता श्यामलाम्बा त्वद्वशं कुरुते जगत् ॥ ५॥
तन्त्रेषु ललितादीनां शक्तीनां नामकोशतः…bottom of page
