top of page

सकलजननीस्तवः | Sakala janani stavah

सकलजननीस्तवः 
जनन-मरण-जन्म-त्रास-घोरान्धकार-प्रशमन-करणायाह्नाय काचित्प्रदीप्तिः ।
तरुण-तरणि-रागं म्लानिमानं नयन्ती विहरतु मम चिते चन्द्र-खण्डावतंसा ॥ १॥

न भवति खलु यावत्काय-वैक्लव्य-भावो न च पतति कृतान्त-क्रूर-दृष्टि-प्रपातः ।
ननु हृदय !  समुद्यद्दीन-दैन्यावसाद-प्रणयन-रसिकां तां तावदासादयाशु ॥ २॥

सरस-सरसिजात-स्फार-सौन्दर्य-सार-स्फुरदवयव-काण्डोद्दाम-लावण्यवापी ।
अनुसरदनुकम्पा-पूर-पूर्णातिमात्रं शमयतु, मम तापं सा शशाङ्कार्ध-चूडा ॥ ३॥

जननि ! नत-निलिम्पी-मौलि-मन्दार-माला-श्लथ-कुसुम-मरन्द-म्लान-पादारविन्दे ।
भव-परिभव-विद्धे वासना-जाल-रुद्धे मसृण-नयन-पातं पातयास्मिन् वराके ॥ ४॥

सकल-भुवन-भारं पञ्च-कृत्यावसानं नतिसुकृतिषु देवेषूच्चकैरर्पयित्वा ।
किमपि निगम-रूढं गूढ-तत्त्व…
bottom of page