top of page

सुरकन्दादेवीस्तवः (वरदानन्दभारतीविरचितः) | Surakanda devi stavah

श्रीसुरकन्दादेवीस्तवः 
ॐ श्री 
॥ श्रीशङ्कर ॥

(अनुष्टुप्)
सुराणां मूलभूमित्वाद् देवानां वा सुखप्रदम् ।
सुरकन्देति विख्यातं क्षेत्रं हिमवतः शुभम् ॥ १॥

तत्र देवी महादेवी पार्वती परमेश्वरी ।
राजते भक्तत्राणाय सुरकन्दनिवासिनी ॥ २॥

सर्वसौख्यप्रदे मातः चेतसः सम्प्रसादिनी ।
पाहि मां सर्वतो भद्रे सुरकन्दनिवासिनी ॥ ३॥

सान्निध्यात् तव रुद्राणि सर्वोपरि विराजते ।
उन्नत्यनुभवात् भक्तो हृदि सन्तुष्यते परम् ॥ ४॥

त्वं तु साक्षात् महामाया…
bottom of page