top of page
गणेशपुराणम् उत्तरखण्डं अथवा क्रीडाखण्डम् -02
२.०१६ बालचरिते नृपप्रत्यागमो नाम षोडशोऽध्यायः
क उवाच ।
शृण व्यास प्रवक्ष्यामि कथामाश्चर्यकारिणीम् ।
यां श्रुत्वा मानवो भक्त्या सुखमत्यन्तमश्नुते ॥ १॥
उत्थाय कल्पे राजाऽसौ नित्यं कृत्वा ययौ बहिः ।
विनायकालयं गत्वा नत्वा तं परिपूज्य च ॥ २॥
सम्प्रार्थयद्भोजनार्थं ततो बालं विनायकम् ।
ततो ददौ स उद्गारं नानापक्वान्न तृप्तिजम् ॥ ३॥
शेषं ददर्श तत्रासौ लड्डुकान् पायसादिकम् ।
अपूपान् वटकान् पुण्यमोदनं सूपसंयुतम्…bottom of page
