top of page
गणेशपुराणम् उत्तरखण्डं अथवा क्रीडाखण्डम् -03
२.०२७ बालचरिते सप्तविंशतीतमोऽध्यायः
व्यास उवाच ।
पूर्वजन्मनि व्याधोऽसौ क आसीद् राक्षसोऽपि सः ।
किं शीलं किं समाचारस्तन्ममाचक्ष्व नाभिज ॥ १॥
अनुष्ठानं कृतं तेन वामनेन कथं प्रभो ।
कथं तस्मै वरो दत्तो गजाननस्वरुपिणा ॥ २॥
लोको गणेशस्य कथं पृथगन्यत्र तिष्ठति ।
कथं शमी प्रिया तस्य सर्वमेतद् वदाशु मे ॥ ३॥
क उवाच ।
शृणु वक्ष्यामि ते सर्वं यद् यत् पृष्टं…bottom of page
