top of page

गणेशपुराणम् उत्तरखण्डं अथवा क्रीडाखण्डम् -04

२.०५२ द्विपञ्चाशत्तमोऽध्यायः
दूतावूचतुः ।
प्रेतभूतपिशाचानां लोकोऽयं राजसत्तम ।
निन्दापैशून्यतास्तेयकृतो यान्त्यत्र भूपते ॥ १॥

ततोऽग्रे पश्यति स्मासौ लोकावसुररक्षसाम् ।
यत्र ते विविधाकारा ऊर्ध्वकेशा भयानकाः ॥ २॥

घोरास्याश्च ललज्जिव्हा मेघनादा धरोपमाः ।
अग्निकुण्डनिभांस्तान् स दृष्ट्वा पप्रच्छ तौ पुनः ॥ ३॥

केषामिदं पुरं दूतौ गदतं मेऽनुपृच्छतः ।
तावुचतुरयं लोको दुष्टदानवरक्षसाम् ॥ ४॥

श्रौतस्मार्तक्रियाहीना अत्र तिष्ठन्ति पापिनः ।
तदग्रे स ददर्शाऽथ लोकं गन्धर्वसेवितम् ॥ ५॥

रौप्यस्वर्णगृहा…
bottom of page