top of page

गणेशपुराणम् उत्तरखण्डं अथवा क्रीडाखण्डम् -06

२.०८६ भूम्युपवेशवर्णनं नाम षडशीतितमोऽध्यायः
क उवाच ।
ततोऽस्याङ्कात्सुतं गौरी नमस्कृत्य समाददे ।
आज्ञां गृहीत्वा प्रायात् स्वं मन्दिरं भृषहर्षिता ॥ १॥

सोऽप्यनुज्ञां ततो गृह्य शिवं नत्वाश्रमं ययौ ।
ततो गौरी चकाराऽस्य सुमहूर्ते शुभे दिने ॥ २॥

गौतमादीन्समाहूय ब्राह्मणानुपवेश्य च ।
द्विजेभ्यो नमयां चक्रे सा प्रणम्य स्वयं च तान् ॥ ३॥

सर्वे देवगणास्तत्र नानोपायनपाणयः ।
आययुस्तं गणाश्चापि गन्धर्वाप्सरसस्तथा ॥ ४॥

उवाच गौरी…
bottom of page