top of page
गणेशपुराणम् उत्तरखण्डं अथवा क्रीडाखण्डम् -08
२.१०६ षडधिकशततमोऽध्यायः
क उवाच ।
ततस्रयोदशे वर्षे नमस्कृत्य महेश्वरम् ।
भस्माङ्गरागरुचिरं पञ्चास्यं दिग्भुजं शुभम् ॥ १॥
रुण्डमालाधरं सुप्तं चन्द्रशेखरमच्युतम् ।
मयूरेशोऽथ जग्राह शशिनं तच्छिरोगतम् ॥ २॥
क्रीडन् बहिः समायातो बालकैः परिवारितः ।
सुहृद्भिः परिनृत्यद्भिर्वद्भिश्च परस्परम् ॥ ३॥
एतस्मिन्नन्तरे तत्र दैत्यो मङ्गलसंज्ञकः ।
करालवदनः क्रोडी विजेता मरमाद्भुतः ॥ ४॥
वराहरूपो बलवान्दन्तच्छिन्नमहीरुहः ।
वज्रसारसटाभिः स भिन्दन्व्योमपदैर्धराम् ॥ ५॥
अञ्जनाद्रिरिव श्यामो वह्निकुण्डनिभेक्षणः ।
दृष्ट्वा तं विद्रुता…bottom of page
