top of page

गणेशपुराणम् उत्तरखण्डं अथवा क्रीडाखण्डम् -09

२.१२३ त्रयोविंशत्युत्तरशततमोऽध्यायः
क उवाच ।
आगतं सिन्धुमाकर्ण्य जहृषे स मयूरराट् ।
नीलकण्ठं समारुह्य ययौ युद्धाय सत्वरः ॥ १॥

चतुर्भिरायुधैः सर्वाभासन् विदिशो दिशः ।
कल्पान्तमेघसदृशनादेन नादयन्नभः ॥ २॥

ददर्श पुरतः सिन्धुं युद्धाय कृतनिश्चयम् ।
सोऽप्येनं समरे दृष्ट्वा पश्यति स्म पुनः पुनः ॥ ३॥

यथा सिहं नागराजो गरुडं चाथ वायुभुक् ।
मधुकैटभौ यथा विष्णुं त्रिपुरो वा शिवापतिम् ॥ ४॥

शुम्भो वापि निशुम्भो…
bottom of page