top of page

गणेशपुराणम् उत्तरखण्डं अथवा क्रीडाखण्डम् -10

२.१३७ वरेण्योपदेशो नाम सप्तत्रिशदधिकशततमोऽध्यायः
क उवाच ।
तं दृष्ट्वा बालकं प्राह सिन्दूरो मदगर्वितः ।
लज्जा मे जायते मन्द युध्यतो बालकेन ह ॥ १॥

याहि शीघ्रं गृहं बाल पिब मातुः स्तनं मुदा ।
वृथा मच्छरपातेन सद्यो मृत्युमुपैष्यसि ॥ २॥

पलायन्ते हि मां दृष्ट्वा केशाद्यास्त्रिदिवौकसः ।
मृते त्वयि तव स्नेहात्पितरौ ते मरिष्यतः ॥ ३॥

अतो गच्छ न मे स्वास्यं दर्शयस्व…
bottom of page