top of page

गणेशपुराणम् पूर्वखण्डं अथवा उपासनाखण्डम् -2

१.१३ ब्रह्मस्तुतिवर्णनं नाम त्रयोदशोऽध्यायः
व्यास उवाच ।
पञ्चास्यश्चतुरास्यश्च सहस्रमस्तकोऽपि च ।
गजास्यं वरदं देवं कथमेते प्रतुष्ठुवुः ॥ १॥

ब्रह्मोवाच ।
प्रसादोन्मुखविघ्नेशकृपापाङ्गनिरीक्षणात् ।
प्राप्तबुद्धिप्रसादास्ते केशास्तं नुनुवुस्तदा ॥ २॥

ब्रह्मविष्णुमहेश्वरा ऊचुः ।
अजनिर्विकल्पं निराकारमेकम् निरानन्दमद्वैतमानन्दपूर्णम् ।
परं निर्गुणं निर्विशेषं निरीहं परब्रह्मरूपं गणेशं भजेम् ॥ ३॥

गुणातीतमाद्यं चिदानन्दरूपं चिदाभासकं सर्वगं ज्ञानगम्यम् ।
मुनिध्येयमाकाशरूपं परेशं परब्रह्मरूपं गणेशं भजेम ॥ ४॥

जगत्कारणं कारणज्ञानरूपं सुरादिं सुखादिं युगादिं गणेशम्…
bottom of page