top of page

गणेशपुराणम् पूर्वखण्डं अथवा उपासनाखण्डम् -3

१.२८ प्रायोपवेशनं नामाष्टाविंशतितमोऽध्यायः
ब्रह्मोवाच ।
ततो रूक्माङ्गदोऽपश्यदृषिं वाचक्नविं शुभम् ।
मुकुन्दां तस्य पत्नीं च स्निग्धमञ्जुलभाषिणीम् ॥ १॥

अतिश्रान्तो नरपतिर्नमश्चक्र उभावपि ।
तस्मिन्मुनौ गते स्नातुं ययाचे नृपसत्तमः ॥ २॥

मातुर्मुकुन्दे मे देहि शीतलं जलमुत्तमम् ।
विना जलं मम प्राणा गमिष्यन्ति यमक्षयम् ॥ ३॥

आकर्ण्य तस्य वाचं सा जगाद मदनातुरा ।
त्वादृशं पुरुषं क्वापि मारादप्यतिसुन्दरम् ॥ ४॥

न देवेषु न नागेषु यक्षगन्धर्वपुञ्जयोः…
bottom of page