top of page

गणेशपुराणम् पूर्वखण्डं अथवा उपासनाखण्डम् -4

१.४५ शिवस्य वरदानं नाम पञ्चचत्वारिंशोऽध्यायः
मुनिरुवाच ।
ततः प्रसन्ने विघ्नेशे देवेशे विघ्नहारिणि ।
वरान् दित्सति शर्वाय किं किं वव्रे सदाशिवः ॥ १॥

ब्रह्मोवाच ।
गणेशवचनं श्रुत्वा शिवोवाक्यमथाऽब्रवीत् ।
स्मृत्वा गजाननं तं तु स्वस्वरूपं वरप्रदम् ॥ २॥

शिव उवाच ।
दशापि नेत्राणि ममाद्य धन्यान्यथो भुजाः पूजनतस्तवाद्य ।
तवानतेः पञ्च शिरांसि धन्यान्यथस्तुतेः पञ्चमुखानि देव ॥ ३॥

पृथ्वी जलं वायुरथो दिशश्च तेजश्च कालः…
bottom of page