top of page
गणेशपुराणम् पूर्वखण्डं अथवा उपासनाखण्डम् -6
१.०७५ पञ्चसप्ततितमोऽध्यायः
क उवाच ।
श्रुत्वा दृष्ट्वा शूरसेनो महिमानं व्रतोद्भवम् ।
स्वयं कर्तुमनाः प्राह वसिष्ठं मुनिपुङ्गवम् ॥ १॥
राजोवाच ।
मुहूर्तं वद सङ्कष्टचतुर्थीव्रत हेतवे ।
व्रतं कर्त्तुमिहेच्छामि सद्यः प्रत्ययकारकम् ॥ २॥
वसिष्ठ उवाच ।
माघे कृष्णे भौमवारे कुरुष्व व्रतमुत्तमम् ।
सर्वसिद्धिकरं सर्वकामदं राजसत्तम ॥ ३॥
ब्रह्मोवाच ।
राजा सम्भृतसम्भारः सपत्नीकोऽति भक्तिमान् ।
अचिरेणैव सम्प्राप्ते वसिष्ठोक्तदिने शुभे ॥ ४॥
प्रारीप्समानः सङ्कष्टचतुर्थीव्रतमुत्तमम् ।
प्राप्तःस्नानं विधायाथ नित्यकर्म…bottom of page
