top of page

अभीष्टप्रार्थनाष्टकम् (रघुनाथदासगोस्वामिविरचितम्) | AbhishTaprarthanashTakam

अभीष्टप्रार्थनाष्टकम् 

कदा गोष्ठे गोष्ठक्षितिपगृहदेव्या किल तया
     सबाष्पं कुर्वत्या विलसति सुते लालनविधिम् ।
मुहुर्दृष्टं रोहिण्यपीहितनिवेशामवनतं
     निषेवे ताम्बूलैरहमपि विशाखाप्रियसखीम् ॥ १॥

कदा गान्धर्वायां शुचि विरचयन्त्यां हरिकृते
     मुदा हारान्वृन्दैः सह सवयसामात्मसदने ।
विचित्य श्रीहस्ते मणिमिह मुहुः सम्पुटचया-
     दहो विन्यस्यन्ती सफलयति सेयं भुजलताम् ॥ २॥

कदा लीलाराज्ये व्रजविपिनरूपे विजयिनी
     निजं भाग्यं साक्षादिह विदधती वल्लभतया ।
समन्ताद्क्रीडन्ती पिकमधुपमुख्याभिरभितः…
bottom of page