top of page
अभीष्टसूचनम् (रघुनाथदासगोस्वामिविरचितम्) | Abhishtasuchanam
अभीष्टसूचनम्
आभीरपल्लीपतिपुत्रकान्ता-
दास्या भिलासातिबलाश्ववारः ।
श्रीरूपचिन्तामणिसप्तिसंस्थो
मत्स्वान्तदुर्दान्थयेच्छुरास्ताम् ॥ १॥
यद्यत्नतः शमदमात्मविवेकयोगै-
रध्यात्मलग्नमविकारमभून्मनो मे ।
रूपस्य तत्स्मितसुधं सदयावलोकं
आसाद्य माद्यति हरेश्चर्तैरिदानीम् ॥ २॥
निभृतविपिनलीलाः कृष्णवक्त्रं सदाक्ष्णा
प्रपिबथ मृगकन्या यूयमेवातिधन्याः ।
क्षणमपि न विलोके सारमेयी व्रस्थाप्य्-
उदरभरणवृत्त्या बम्भ्रमन्ती हताहम् ॥ ३॥
मन्मानसोन्मीलदनेकसङ्गम
प्रयासकुञ्जोदरलब्धसङ्ग्योः ।
निवेद्य सख्यर्पय मां स्वसेवने
वीटीप्रदानावसरे व्रजेशयोः ॥ ४॥
निविडरतिविलासायासगाढालसाङ्गीं
श्रमजलकणिकाभिः क्लिन्नगण्डां नु राधाम् ।
व्रजपतिसुतवक…