top of page

आनन्दचन्द्रिकास्तोत्रम् (रूपगोस्वामिविरचितम्) | Anand chandrika stotram

आनन्दचन्द्रिकास्तोत्रम् 
श्रीश्रीराधाकृष्णाभ्यां नमः ।
ध्यानम् ।
अङ्गश्यामलिमच्छटाभिरभितो मन्दीकृतेन्दीवरं
     जाड्यं जागुडरोचिषां विदधतं पट्टाम्बरस्य श्रिया ।
वृन्दारण्यविलासिनं हृदि लसद्दामाभिरामोदरं
     राधास्कन्धनिवेशितोज्ज्वलभुजं ध्यायेम दामोदरम् ॥

अथ श्रीराधिकाया आनन्दचन्द्रिकास्तोत्रं
श्रीराधिकायै नमः ।
राधादामोदरप्रेष्ठा राधिका वार्षभानवी ।
समस्तवल्लवीवृन्दधम्मिल्लोत्तंसमल्लिका ॥ १॥

कृष्णप्रियावलीमुख्या गान्धर्वा ललितासखी ।
विशाखासख्यसुखिनी हरिहृद्भृङ्गमञ्जरी ॥ २॥

इमां वृन्दावनेश्वर्या दशनाममनोरमाम् ।
आनन्दचन्द्रिकां नाम यो रहस्यां स्तुतिं पठेत् ॥ ३॥

स क्लेशरहितो भूत्वा भूरिसौभाग्यभूषितः ।
त्वरितं करुणापात्रं राधामाधवयोर…
bottom of page