top of page
उत्कण्ठादशकम् (रघुनाथदासगोस्वामिविरचितम्) | Utkantha dashakam
उत्कण्ठादशकम्
छिन्नस्वर्णविनिन्दिचिक्कणरुचिं स्मेरां वयःसन्धितो
रम्यां रक्तसुचीनपट्टवसनां वेशेन विभ्राजिताम् ।
उद्घूर्णाच्छितिकण्ठपिञ्छविलसद्वेणीं मुकुन्दं मनाक्
पश्यन्तीं नयनाञ्चलेन मुदितां राधां कदाहं भजे ॥ १॥
यस्याः कान्ततनूल्लसत्परिमलेनाकृष्ट उच्चैः स्फुर-
द्गोपीवृन्दमुखारविन्दमधुतत्प्रीत्या धयन्नप्यदः ।
मुञ्चन्वर्त्मनि बम्भ्रमीति मदतो गोविन्दभृङ्गः सतां
वृन्दारण्यवरेण्यकल्पलतिकां राधां कदाहं भजे ॥ २॥
श्रीमत्कुण्डतटीकुडुङ्गभवने क्रीडाकलानां गुरुं
तल्पे मञ्जुलमल्लिकोमलदलैः कॢप्ते मुहुर्माधवम् ।
जित्वा मानिनमक्षसङ्गरविधौ स्मित्वा दृगन्तोत्सवै-
र्युञ्जानां…bottom of page
