top of page

देवीपूजाविधानम् | devi puja vidhanam

श्रीदेवीपूजाविधानम् 

तत्रादौ राधिकामन्त्रं श‍ृणु नारद भक्तितः ॥

ब्रह्मविष्ण्वादिभिर्नित्यं सेवितो यः परात्परः ।
श्रीराधेति चतुर्थ्यन्तं वह्नेर्जाया ततः परम् ॥ १॥

षडक्षरो महामन्त्रो धर्माद्यर्थप्रकाशकः ।
मायाबीजादिकश्चायं वाञ्छाचिन्तामणिः स्मृतः ॥ २॥

वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि ।
एतन्मन्त्रस्य माहात्म्यं वर्णितुं नैव शक्यते ॥ ३॥

जग्राह प्रथमं मन्त्रं श्रीकृष्णो भक्तितत्परः ।
उपदेशान्मूलदेव्या गोलोके रासमण्डले ॥ ४॥

विष्णुस्तेनोपदिष्टस्तु तेन ब्रह्मा विराट् तथा ।
तेन धर्मस्तेन चाहमित्येषा हि परम्परा…
bottom of page